This page has not been fully proofread.

३८८
 
शार्ङ्गधरपद्धनिः
 
भयानि सर्वाण्यपि शान्तनादा
शान्तस्थिता सैव भयाय भूमे ॥ ३२३ ॥
 
2646
 
यदा च नद्युत्तरणे नराणां
 
शब्द शृंगाली कुरुते कदाचित् ।
तटद्वये तत्परिरक्षणीयं
 
भयं महद्भावि जलेचरेभ्यः ॥ ३२४ ॥
 
अथ फेरवः ।
 
2647
 
यात्रायां गच्छतां वामाः स्वनिताः फेरवः शुभाः ।
निषेधयन्ति ते यात्रां शृगाला दक्षिणारवाः ॥ ३२५ ॥
 
2648
 
शान्तासु दिक्षु फेरूणां हृष्ट: शब्द: प्रशस्यते ।
 
एको रवः सदा निन्द्यः सोप्यातनां भयापहः ॥ ३२६ ॥
 
2649
 
गतिर्वामा प्रयाणे तु प्रवेशे दक्षिणा शुभा ।
 
नत्रस्थो न विलम्बेत शस्तः सर्वत्र जम्बुकः ॥ ३२७ ॥
 
अथोलूकपिङ्गले ।
 
2650
 
अथ घूकस्वरो वामे यात्रायां गच्छतः शुभः ।
दक्षिणे मृतये किंचिद्दुष्टं दर्शनमस्य हि ॥ ३२८ ॥
 
2651
 
कौशिको दक्षिणो मूत्वा पश्चाद्दामस्वरो यदि ।
कष्टं विधाय मृत्यन्तं निर्वाणे कार्यसाधकः ॥ ३२९ ॥
 
2652
 
करोति हुं हुं भुगिति ध्वनिं यो
नेष्टो न दुष्टः स यतो रतार्थी ।