This page has not been fully proofread.

11
 
शकुन ज्ञानम्
 
वाणिज्य सेवादिफलाय षष्ठे
 
श्रीः सप्तमे स्याद्विफलोष्टमेषु ॥ ३१७ ॥
 
2640
 
यात्रास्वपि वामरवा शिवा शिवा शान्तदिक्षु नान्यास ।
दक्षिणरवापि शान्ते शस्ता शास्त्राप्रमाणेन ॥ ३१८ ॥
 
20
 
2641
 
वामा प्रदीप्ते ककुभः प्रदेशे
लाभं तदा हीनमुपाददाति ।
शिवा रटन्ती पथि दक्षिणे तु
क्षिपत्यनर्थान्बहुसंकटेषु ॥ ३१९ ॥
 
2642
 
अध्यास्य शान्तां ककुभं गृगाली
 
नरस्य वामा यदि रारटीति ।
तदर्थलाभं वितरत्यवश्य
 
मर्थक्षयं दक्षिणतो रटन्ती ॥ ३२० ॥
 
2643
 
दक्षिणतः प्रथमं यदि पश्चा-
द्वामगता पथिकस्य शृगाली ।
फेत्कुरुते कुरुते तदवश्यं
क्षेमधनाप्तिगृहागमनानि ॥ ३२१ ॥
 
2644
 
कार्यान्तरेष्वप्यनुगम्यमाना
 
श्रेयः प्रदा शान्तादेशि प्रदिष्टा ।
 
शिवा प्रदीप्ते तु दिशः प्रदेशे
समारटन्ती महते भयाय ॥ ३२२ ॥
 
2645
 
३८७
 
भयोद्यमे दीप्तादेशि प्रदीतै-
नदैर्नृणां हन्ति महान्ति देवी ।