This page has not been fully proofread.

शकुनज्ञानम्
 
स्थादूर्ध्वपादः शुनकः शयान:.
सिद्धिप्रदः कार्यविधौ विदुष्टे ॥ ३०५ ।
 
2628
 
अस्थातुरमे यदि सारमेयः
 
कायं सपुच्छं श्रवणं धुनोति ।
 
ध्रुवं तदा तत्र दृढमहारा
 
हरान्त चोरा द्रविणं क्षणेन ॥ ३०६ ॥
 
2629
 
अङ्गारशूलाइमपलालकेश-
विस्तीर्णविट्चर्ममृतेषु दृष्टः 1
श्वा मूत्रयन्यच्छति कार्यनाशं
दारिद्र्यमृत्युप्रमुखाननर्थान् ॥ ३०७ ॥
 
2630
 
विषमांसभक्षादिकपूर्णव को
 
भयार्दितः श्वा यदि कम्पमानः ।
 
परामुखो याति तदाध्वगानां
 
नश्यन्ति सिद्धान्यपि वाञ्छितानि ॥ ३०८ ॥
 
2631
 
विजृम्भते लेढि च नालिका में
यः स्वाङ्गभङ्गं भषणः करोति ।
स लाभहानि प्रकरोति पुंसो
मृत्युप्रदः श्वान्तरलङ्कनेन । ३०९ ॥
 
2632
 
चामकेन यदि दक्षिण म
 
दक्षिणेन भषों यदि वामम् ।
स स्पृशत्यभिमतो न कदाचि-
तत्प्रयोजनविधौ कचनापि ॥ २१० ॥
 
३८५