This page has been fully proofread once and needs a second look.

सामान्यकविप्रशंसा
 

149
 

विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे

निन्दति कञ्चुकमेत्र प्रायः शुष्कस्तनी नारी ॥ ५ ॥
 

कस्यापि ।
 

150
 

याता यान्ति च यातारो लोकाः शोकाधिका भुवि ।

काव्यसंबन्धिनी कीर्ति: स्थायिनी निरपायिनी ॥ ६ ॥

श्रीअनन्तदेवानाम् ।
 

151
 

किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।

उदधेरिव नायान्ति रसामृतपरम्पराः ॥ ७ ॥
 

जयमाधवस्य ।
 

152
 

नवोक्तिर्जातिरमाग्राम्या श्लेषोक्लिष्ट: स्फुटो रसः ।

विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥
 

बाणभहस्य ।
 
ट्टस्य ।
153
 

दुर्जन हुताशतप्तं काव्य सुवर्णं विशुद्धिमायाति ।

दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ९ ॥
 
२५
 

154
 

यन्त्राकृष्ट सुवर्णसूत्रमिव यत्पद्यं सुमेरोस्तटा-

दुन्मीलत्कुरुविन्दकन्दल इव स्वच्छ : पदार्थस्तु यः ।

यत्राप्युल्ल सदंशुकान्तरलसत्कान्ताकुचान्तोपमं
 

व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ १० ॥

कयारप्येतौ ।
 

------------
अथ सामान्यकविप्रशंसा ॥ ७ ॥
 

155
 

कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।

कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १ ।
 

शङ्खधरस्य ।