This page has not been fully proofread.

सामान्यकविप्रशंसा
 
149
 
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ये स्वे
निन्दति कञ्चुकमेत्र प्रायः शुष्कस्तनी नारी ॥ ५ ॥
 
कस्यापि ।
 
150
 
याता यान्ति च यातारो लोकाः शोकाधिका भुवि ।
काव्यसंबन्धिनी कीर्ति स्थायिनी निरपायिनी ॥ ६ ॥
श्रीअनन्तदेवानाम् ।
 
151
 
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।
उदधेरिव नायान्ति रसामृतपरम्पराः ॥ ७ ॥
 
जयमाधवस्य ।
 
152
 
नवोक्तिर्जातिरमाम्या श्लेषोक्लिष्ट: स्फुटो रसः ।
विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ८ ॥
 
बाणभहस्य ।
 
153
 
दुर्जन हुताशततं काव्य सुवर्ण विशुद्धिमायाति ।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ९ ॥
 
२५
 
154
 
यन्त्राकृष्ट सुवर्णसूत्रमिव यत्पद्य सुमेरोस्तटा-
दुन्मीलत्कुरुविन्दकन्दल इव स्वच्छ : पदार्थस्तु यः ।
यत्राप्युल्ल सदंशुकान्तरलसत्कान्ताकुचान्तोपमं
 
व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपलवः ॥ १० ॥
कयारप्येतौ ।
 
अथ सामान्यकविप्रशंसा ॥ ७ ॥
 
155
 
कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।
कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १ ।
 
शङ्खधरस्य ।