This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
खनन्धरित्रीमसुखावहः स्या-
देवात्पुनः स्यादनिवृत्तिहेतुः ॥ २९८ ॥
 
2621
 
स्थानान्तरं विभ्रदुपानही चे-
त्प्रयाति तद्रव्यहरस्तदा स्यात् ।
आस्ते पुरस्तात्सह याति चेच्छा
ददात्युपानद्वदनस्तथार्थम् ॥ २९९ ॥
 
2622
 
आई की कसमुखः पुरतश्चे-
हृदयते भवति तच्छुभदः श्वा ।
चर्म शुष्कमथवास्थि विशुष्कं
विभ्रदेष मरणं विदधाति ॥ ३०० ॥
 
2623
 
के शाश्मभस्मोल्मुकजीर्णवस्त्रा-
व्यङ्गाररज्ज्विन्धनकर्पराणि ।
व समासाद्य च याति यातु-
दृग्गोचरे भूरिभयावहः श्वा ॥ ३०१ ॥
 
2624
 
दीर्घपाद: पथि स्थित्वा रोदिति श्वा प्रवासिनः ।
तत्कुटुम्ब रोदयते मार्ग लिखति वित्तदः ॥ ३०२ ॥
 
2625
 
निविशत्यर्धमार्गे चेत्तदा मामान्तरे स्थितिः ।
भवति वा लुठति चेन्मार्गामेणेह कष्टदः ॥ ३०३ ॥
 
2626
 
दक्षिणे निजपक्षनो वामे स्त्रीपक्षहानिकृत् ।
पृष्ठे च गृहदुःखाय जायते लुटनं शुनः ॥ ३०४ ॥
 
2627
 
अत्यन्तकण्डूतिपरो नराणां
विरोधकारी शुनकः सदैव ।