This page has not been fully proofread.

शकुनज्ञानम्
 
2615
 
युद्धं विधातुं चलितस्य मध्या-
त्सैन्यद्वयस्यानुपदस्य यत्र ।
कौलेयको मूत्रयते ध्वजादा-
वसंशयं तस्य भवेज्जयश्रीः ॥ २९३ ॥
 
2616
 
योद्धव्यमद्यैव मयेति यातुः
 
प्रावेशिकं स्याच्छुभदं निमित्तम् ।
दिनान्तरे यस्तु नरो युयुत्सुः
 
क्षेमंकर यात्रिकमेव तस्य ॥ २९४ ॥
2617
 
रोगार्दिते भेषजसंप्रयोगे
 
युद्धोद्यमे नष्टविलोकने च ।
 
दुर्गप्रवेशे च शुनः प्रशस्ता
 
तारागतिः संनिहिते भये वा ॥ २९५ ॥
 
2618
 
तिष्ठतां प्रचलतां च नराणां
 
मंदिरे प्रविशतां च समस्तम् ।
 
दक्षिणं भषणचेष्टितमिष्टं
 
चामकं पुनरुशन्ति विदुष्टम् ॥ २९६ ॥
 
2619
 
खादति किंचन दृष्टिगतश्चे-
द्यच्छति तद्विविधं बहुभोज्यम् ।
 
धूतशिरा उत नामितपुच्छो
यो भषणः स निषेधति भोज्यम् ॥ २९७ ॥
 
अथाशुभचेष्टितानि ।
 
2620
 
बलेन वामो यदि नीयते श्वा
कष्टात्तदल्पं विदधाति लाभम् ।
 
३८३