This page has not been fully proofread.

३८२
 
शार्ङ्गधरपद्धतिः
 
तत्रैव देशे द्रविणस्य लाभं
 
ब्रवीति कार्य हे संशयोत्र ॥ २८७ ॥
 
2610
 
वामेन गच्छन्पथिकेन सार्धं
 
ददाति रम्यां रमणीं धनेन ।
 
व्रजंस्तु मार्ग सह दक्षिणेन
 
कौलेय कस्तस्करभीतिमाह ॥ २८८ ॥
 
2611
 
आदाय पत्रं त्वरितं यदि श्वा
 
दूर्वी नवां वा नवगोमयं वा ।
प्रयाति यातुः पुरतस्तदानीं
 
राजप्रसादं नियतं ब्रवीति ॥ २८९ ॥
 
2612
 
यक्षो हरिद्रामिषगैरिकाद्यैः
 
पूर्णाननो वक्ति सुवर्णलाभम् ।
दृष्टिं पुनः पत्रफलाङ्करेषु
 
चिरं ददानो निधिलाभकारी ॥२९० ॥
 
2613
 
फलं गृहीत्वा सहसा निवासं
यक्षो विशञ्जल्पति पुत्रलाभम् ।
योभ्येति हृष्टोभिमुखः प्रयातुः
शीघ्रं स कुर्याद्धनधान्यलाभम् ॥ २९९ ॥
 
2614
 
यः पल्लवैः क्रीडति वृक्षमूलं
तथेक्षते यः स ददाति सौख्यम् ।
रक्ताक्षवक्रोभिमुखोभ्युपैति
 
यो मण्डलः सोवनिलाभमाह ॥ २९२ ॥