This page has not been fully proofread.

शकुनज्ञानम्
 
2591
 
स्पष्टचेष्ट: शुभ: श्वानो निर्भीको निकटस्थितः ।
सर्वथा सिद्धये ग्राह्यः शकुन: स्पष्टदर्शनः ॥ २६९ ॥
 
2592
 
शुभः प्रागशुभः पश्चादशुभ: प्राक्छुभस्ततः ।
पाश्चात्यः फलदोवश्यं शकुन: सर्वकर्मसु ॥ २७० ॥
 
2593
 
समकालं सजातीया वामदक्षिणराविणः ।
शकुनास्तोरणासंज्ञाः सिद्धिं कुर्युर्गमागमे ॥ २७१॥
 
2594
 
नरस्यात्यन्तिके कार्ये जाते दुःशकुनं भवेत् ।
 
यदा तदा जपेत्तत्र मन्त्रं सुशकुनातये ॥ २७२ ॥
 
2595
 
मन्त्रः । ॐ भगवत्या भद्रकाल्या भट्टपुत्रस्तु कुर्कुटः ।
द्धप्रसादतः काइयां स मे स्याच्छकुनं नरः ।
ॐ अस्तु अस्तु अस्तु ॥ २७३ ॥
 
2596
 
मन्त्रमिति सप्त जात्रा स्थाने तस्मिन्विशेत्क्षणं यावत् ।
मन्त्रप्रभावजातं सुशकुनमालोक्य गच्छेत ॥ २७४ ॥
अथ जाङ्क्षिकशकुनेषु शुभचेष्टितानि ।
 
2597
 
वामां दिशं दक्षिणभूमिभागा-
द्रच्छन्प्रयाणे भषण: प्रशस्तः ।
वामप्रदेशात्स पुनः प्रवेशे
 
प्रशस्यते दक्षिणभागगामी ॥ २७५ ॥
 
2598
 
जाते प्रवेशे भवति प्रशस्ता
 
शुन्या गतिः श्वानविपर्येण ।
 
३७९