This page has not been fully proofread.

३७८
 
शार्ङ्गधरपद्धतिः
 
2582
 
निन्द्यानि लोहशृङ्गलभस्मेन्धनरज्जुरिक्तभाण्डानि ।
कर्पास के शविष्ठास्थीनि गुडवर्मलवणानि ॥ २६० ॥
 
2583
 
तक्रवसा तृणकर्परपिण्याकाङ्कारभुजगमार्जाराः ।
निन्द्या मुण्डा मलिनास्तैलं रिपुमहिषगर्दभारूढाः ॥२६१॥
 
अथ शकुनविचारः ।
 
2584
 
स्थानं गतिस्तथा चेष्टा स्वरो दिगिति पञ्चधा ।
विचार्या: शकुनास्तत्र बलवन्तो यथोत्तरे ॥ २६२ ॥
 
2585
 
क्रोशादन्तर्बली तस्मादूर्ध्वं मन्दफलस्ततः ।
 
न जातः सर्वथा यस्य शकुन: स्यात्स मृत्यवे ॥ २६३ ॥
 
2586
 
शकुन: शकुनं दवा दीप्तां यदि दिशं व्रजेत् ।
तदा तस्यैव पञ्चत्वं तत्फलं पथिकस्य न ॥ २६४ ॥
 
2587
 
आसन्ने फलमासन्नं दूरगे दूरगं फलम् ।
 
मिश्रं तु मिश्रे शकुने फलमा हुर्मनीषिणः ॥ २६५ ॥
 
2588
 
गृहभित्तिवप्रकूटाद्यन्तरे शकुनं भवेत् ।
 
दृश्यते चेदर्घफलमदृष्टमफलं विदुः ॥ २६६ ॥
 
2589
 
रोगातः क्षुधितो भीतो वननीडादिसङ्गवान् ।
न ग्राह्यः शकुन: सीमा शैलाद्यन्तरितः शुभः ॥ २६७ ॥
 
2590
 
प्राणायामाष्टकं कुर्यादाचे द्विगुणितं इये ।
तृतीये शकुने दुष्टे तदिनं गमनं त्यजेत् ॥ २६८ ॥