This page has not been fully proofread.

25
 
शकुनज्ञानम्
2572
 
सिद्ध्यै केनचिदुक्तं पृष्ठे गच्छेति पुरत एहति ।
मागाः क्व यासि तिष्ठेत्येवं रूप निषेधाय ॥ २५० ॥
 
2573
 
दृष्ट: शव: प्रवासे रोदनबन्धः प्रियाणि साधयति ।
धत्ते स तु प्रवेशे दीर्घरुजं दीर्घनिद्रां वा ॥ २५१ ॥
 
2574
 
दीनक्षपणोन्मत्तप्रव्राजक विकृतवेषहीनाङ्गाः ।
 
न शुभा: शुभास्तु सर्वे यतयो भिक्षोल्लसत्पात्राः ॥ २५२॥
 
2575
 
पिष्टान्नमशुभं सर्व भृष्टं धान्यं न सिद्धये ।
 
सिद्धमन्नं सर्वसिद्धयै कथितं कष्टहेतवे ॥ २५३ ॥
2576
 
आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः ।
निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृडशान्ताः ॥२६४॥
 
2577
 
संहार बीजबहुल: केनचिदुक्का प्रशस्यते नाशीः ।
 
गमने यइत्साक्षात्र्यक्षः क्षपयति विपक्षं ते ॥ २५६ ॥
 
2578
 
उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानाम् ।
स्वस्थानामपि यदजस्ता धारा धरित्रीति ॥ २५६ ॥
 
2579
 
सार्जार महिषयुद्धं स्वनितं गृहदाह बन्धुकलहाव्यम् ।
विद्युत्या दुर्दिन मयात्रिकं सूतके हेच ॥ २५७ ॥
 
2580
 
प्रतिसूर्यदर्शनो ल्काप्रपात के तुप्रबोधनिर्घाताः ।
 
वृष्टिः करकापात: पुंसां प्रस्थानविघ्नाय ॥ २५८ ॥
 
2581
 
क्षोभपलायनभङ्गस्खलन विपर्यासभङ्गवेगादि ।
यन्मुख्यवाहनानां तदपि निषेधाय गमनस्य ॥ २५९ ॥