This page has not been fully proofread.

शकुनज्ञानम्
 
निकामवर्षित्वमथाम्बुदानां
 
धर्मप्रवृत्तिश्च सुराजता च ॥ २३२ ॥
 
अथ जाङ्घिकशकुनं प्रस्थितानाम् ।
 
2555
 
अश्विनीमैत्ररेवत्यो मृगो मूलं पुनर्वसुः ।
 
पुष्यो ज्येष्ठा तथा हस्तः प्रस्थाने श्रेष्ठ उच्यते ॥ २३३ ॥
 
2556
 
प्रीतोवदातवेषः कृतमङ्गल्यः प्रणम्य गुरुदेवान् ।
अप्रतिरथं जपित्वा शुभ मुहूर्ते प्रतिष्ठेत ॥ २३४ ॥
 
३७५
 
2557
 
अर्जुन: फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ २३५ ॥
 
2558
 
या वहति तत्र समये नाडी पादं तमग्रतः कृत्वा ।
अन्तः प्राणे प्रविशति याया नायकवेषेण ॥ २३६ ॥
 
2559
 
योजनशेषे नगराड्रामा क्रोशान्तरे पथि त्याज्यम् ।
कल्याणं वाञ्छद्भिः पथितं च हास्यं च ॥ २३७ ॥
 
2560
 
मुण्डनवपनविकर्तन तैलाभ्यङ्गाश्रुमोक्षमुख्यानि ।
मैथुनमद्यदुरोदरकलहानपि वर्जयेत्तदहः ॥ २३८ ॥
 
2561
 
संताय कमपि परुषं विप्रानवमान्य बालमाहत्य ।
निर्भय योषितो वा प्रयाति नायाति पुनरत्र ॥ २३९ ॥
 
2562
 
अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने ।
 
स्मृत्वा क्षेमंकरों देवीं पश्यता शकुनाञ्शुभान् ॥ २४० ॥