शार्ङ्गधरपद्धतिः /389
This page has not been fully proofread.
३७४
शार्ङ्गधरपद्धतिः
अथ संकीर्णशकुनानि ।
2546
नीचैरवरोहन्तस्तारा यान्तः प्रदक्षिणावर्त्ता: ।
घ्नन्ति भयं भीतानां कृष्णाः सर्पाच माजीराः ॥ २२४ ॥
2547
पूर्णाननाः समृद्ध्यै मार्जारभुजंगमादयोपि ये क्रूराः ।
किं पुनर परे शकुनाः शस्तं चेष्टादिकं येषाम् ॥ २२५ ॥
2548
गर्भगृहे शय्यादौ देहल्यामाज्यकुम्भमुख्येषु ।
चुल्हीगृहमूर्धादिषु न शुभा निन्द्यप्रदेशे च ॥ २२६ ॥
2549
नेष्टो गृहोपविष्ट छत्रासनवाहनादिसंस्थो वा ।
नेष्टः शिरसि विमुञ्चन्वर्चः पाण्डुः कपोतस्तु ॥ २२७ ॥
2550
पिङ्गलाफेरुजम्बुक्यो वृको घूकोह्नि शब्दितः ।
निशि तित्तिरिशब्दाश्च जगदुद्दासहेतवः ॥ २२८ ॥
2551
परस्य योनिं गच्छन्तो नृखरावपहाय देशभङ्गाय ।
सर्वस्यापि हि जगतः प्रकृतिस्था विकृतिरुत्पातः ॥ २२९ ॥
2552
उवासयितुं वेदमनि सरघाः कुर्वन्ति यन्मधुच्छत्रम् ।
दुर्गा करोति नीडं कुर्युर्वल्मीकमुपदीकाः ॥ २३० ॥
2553
ग्रामोद्वासन हैतोर्मामे नगरे तु तत्पतिवधाय ।
प्रविशन्ति सिंहभसुकगोमायुतरक्षुमुख्यास्तु ॥ २३१ ॥
2554
देशोदयाय प्रतिमप्रभावा
वनौषधीनामधिका फलर्धिः ।