शार्ङ्गधरपद्धतिः /388
This page has not been fully proofread.
शकुनज्ञानम्
2539
दुग्धस्थाल्युपरिस्था गिरोलिका चतुष्पदस्य नाशाय ।
सर्वासु दिक्षु शब्दस्तासां लोकस्य नाशाय ॥ २१७ ॥
अथ वृश्चिकः ।
2540
दीपोत्सवे दैववशाद्यदि विद्धयति वृश्चिकः ।
तवर्षं तस्य चोद्वेगधनमानादिहानिदम् ॥ २१८ ॥
2541
वृश्चिको वस्तुमध्ये वा कुर्वतां वस्तुविक्रयम् ।
महाघेतां सदा तस्य वस्तुनः कथयत्यदः ॥ २१९ ॥
अथाङ्गस्फुरणम् ।
2542
३७३
दक्षिणमङ्गं पुंसः स्त्रियाश्च वामं शुभावहं स्फुरितम् ।
नीचोच्चमध्यमात्रः फलति च गात्रोचितः स्पन्दः ॥ २२० ॥
2543
धनवृद्धिरन्त्रकम्पे नाभिस्पन्दः स्वदेशनाशाय ।
पृष्ठे पराजयाय स्फुरणं हृदयस्य विजयाय ॥ २२१ ॥
2544
प्रियसंगमाय बाहोः कम्पो हत्कमलसंभवो भीत्यै ।
मूर्ध्नि स्फुरिते राज्यं लभते सीमन्तिनीमक्ष्णोः ॥ २२२ ॥
2545
वामस्याधः स्फुरणमसकृत्संगरे भङ्गहेतु-
स्तस्यैवोर्ध्व हरति नितरां मानसं दुःखजालम् ।
नेत्रोपान्ते हरति च धनं नेत्रकोणे च बन्धुं
सव्ये चैतत्फलमविकलं व्यत्ययं चापसव्ये ॥ २२३ ॥