This page has not been fully proofread.

३७२
 
शार्ङ्गधरपद्धतिः
 
अथ पल्ली ।
 
2530
 
पली भुजेपसव्येथ मस्तके स्वामिमोदिनी ।
 
पतन्ती कुरुते वामे लाभं हानिकरी करे ॥ २०८ ॥
 
2531
 
करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा ।
 
पृष्ठे चोपद्रव हन्त्युदरे मिष्टान्नभोजनम् ॥ २२९ ॥
 
2532
 
अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम् ।
 
तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥ २१० ।
 
2533
 
नाभी पुत्रफलं दत्ते कटौं गुह्ये च रोगकृत् ।
 
जानुयुग्मे सुखं सृते पादयोश्च महाभयम् ॥ २११ ॥
 
2534
 
चरणादूर्ध्वगीभूय यद्यारोहति मस्तकम् ।
 
भाज्यं राज्यं तदा दत्ते पल्ली श्वेता विशेषतः ॥ २१२ ॥
 
2535
 
चिन्तिताभ्यधिक लाभं स्थिता भोजनभाजने ।
सर्वमेतत्फलं दत्ते वहन्तीनाडिकां श्रिता ॥ २१३ ॥
 
2536
 
स्त्रीलाभं रतिलाभायुद्धं युद्धात्समागमं सङ्गात् ।
 
भक्षालाभं इनेगदती पल्ली छत्रीस्वना नेष्टा ॥ २१४ ॥
 
2537
 
पतिता मस्तके यस्य चिरं तिष्ठति पल्लिका ।
मरणं तस्य झटिति तत्रोत्तीर्णेपि कष्टदा ॥ २१५ ॥
 
2538
 
पलिकाया गृहद्वारे स्वरोतिथिसमागम् ।
 
कुरुते स्वस्थचित्तस्य पृष्ठे चोरभयं स्वरः ॥ २१६ ॥