This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
अथ तित्तिरिखरशशसर्पाः ।
 
2513
 
ग्रामे पुरे वा दिशि दीपितायां
स्थानस्थिताना मरुणोदयें चेत् ।
उद्वेगदायी निशि सर्वदिक्षु
 
करोति शून्यं ध्वनिराशुगस्य ॥ १९९
 
2514
 
वारुण्यां ध्वनितोस्ते त तित्तिरिश्चौरभीतिदः ।
तु
 
समये भीतिहन्ता च ध्रुवं मध्येदिनं ध्वनिः ॥ १९२ ॥
 
2515
 
घाटीभयं स ऐशाने सर्वदिक्षु न शोभनः ।
स्थानस्थितस्यैककालं सर्वदा सर्वथा त्यजेत् ॥ १९३ ॥
 
2516
 
कृप्यारम्भदिने क्षेत्रं प्रविष्टस्याथ तित्तिरे: ।
 
प्राच्यां रुतं सर्वभीत्यै प्रतीच्यां भीतिसंभवः ॥ १९४ ॥
 
2517
 
उदीच्यां सस्यनिष्पत्तिर्याम्यां निष्पत्तिनाशनम् ।
गृहान्निर्गच्छतां वामे शुभं क्षेत्रे च दक्षिणम् ॥ १९५ ॥
 
2518
 
स्थानस्थस्य प्रयातुर्वा तित्तिरिर्ध्वनितस्तदा ।
 
खरस्य दटिते ग्राह्यं चेष्टा चास्य शुभा हिता । १९६ ॥
 
2519
 
केदार पाल्यां गेहे वा शशको दृश्यते यादे ।
महासुभिक्षं जानीया गीतानां चापि निर्भयम् । १९७ ॥
 
2520
 
आषाढे शशका दृष्टा स्थानस्थाने सुभिक्षदाः ।
चतुष्पदादिनाशाय तब्यै शशदर्शनम् ॥ १९८ ॥
 
2521
 
केदारगाहसमये कृष्णसर्पो विलोक्यते ।
नेपलाशत्रुगारूढः सुभिक्षं त्र वदेत्तदा ॥ १९९ ॥