शार्ङ्गधरपद्धतिः /383
This page has not been fully proofread.
३६८
शार्ङ्गधरपद्धतिः
2497
काकस्य वृष्टिहेतोर्नीडं दिक्षु प्रशस्यते तिसृषु ।
दुर्भिक्षमरणहेतुर्भवति सयाम्येषु कोणेषु ॥ १७५ ॥
2498
मूर्ध्नि तरोबहु वर्षति मध्ये मध्यं न वर्षति स्कन्धे ।
जाते काककुलाये शुष्कतरौ वर्षति न जातु ॥ १७६ ॥
2499
भूमौ लग्नमहीरुहवल्मीकश्वभ्रकोटरतटेषु ।
काकोलस्य कुलायं जातं देशस्य नाशाय ॥ १७७ ॥
2500
द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।
अण्डावकिरणमेकाण्डताप्रसूति न शिवाय ॥ १७८ ॥
अथ पोतकी ।
2501
स्थानस्थितानां सूर्यास्ते प्राच्यां कुर्यादुमा ध्वनिम् ।
नृपप्रसादं कुरुते शान्तेतिथ्यागमाय च ॥ १७९ ॥
2502
दोप्ने तु ध्वनिता दुर्गा सा किंचिद्रक्तहानये ।
उदयेस्ते दक्षिणस्यां ग्रामात्सा क्षेमलाभदा ॥ १८० ॥
2503
शुभा सदैव कौर्यामध्रुवान्स्थापयत्यलम् ।
सेवाग्नेय्यां सदा भीत्यै वायव्यां दुःखिनः शुभा ॥ १८१ ॥
2504
सुखिनश्चाशुभा किंचित्पाण्डवी ध्वनिता सती ।
ब्रह्मस्थानेच मध्याह्ने कलिघातग्रहादिकृत् ॥ १८२ ॥
2505
गेहान्तर्ध्वनिता मीत्यै पदे तु स्वामिमृत्यवे ।
शय्यायां महिलाकष्टं दुर्गायाः कुरुते रवः ॥ १८३ ॥