This page has not been fully proofread.

शकुनज्ञानम्
 
2463
 
त्र्यहं गृहद्वारि रुवत्युलू के
हरन्ति चौरा द्रविणं प्रसह्य ।
तस्मिन्प्रदेशे निशि मांसयुक्त-
स्तदोषनाशाय बलि: प्रदेयः ॥ १४१ ॥
 
2464
 
संध्याकाले रुवन्भूमौ प्रवेशे वेश्मनोथवा ।
 
वृष्टो रोगप्रदो घूकः सोप्यार्तानां भयापहः ॥ १४२ ॥
 
2465
 
घूघूशब्दः सदा शान्तो गुरुलुग्लुश्च तादृशः ।
अन्ये शब्दास्तु घूकानां निन्दिताः सर्वदा स्मृताः ॥ १४३ ॥
 
2466
 
शान्तायां दिशि वृक्षेषु मामदूरे च शब्दितः ।
: स्यात्सर्वलोकानामृद्धिवृद्धिसुखार्थकृत् ॥ १४४ ॥
 
घूकः
 
अथ पिङ्गला ।
 
2467
 
गृहोपरि गृहद्वारे पिङ्गला रौति यस्य च ।
म्रियते तस्य गेहान्तर्न शुभा तेन सा स्मृता ॥ १४५ ॥
 
2468
 
शान्तायां दिशि वृक्षेषु शुभेषु यदि पिङ्गला ।
रौति भूम्यम्बुतत्त्वाभ्यां तदा तत्र शुभं भवेत् ॥ १४६ ॥
 
2469
 
पृथिव्यां कीचिकीचीति चीलिचीली जलोद्भवा ।
शब्दितं शुभकृज्ज्ञेयं पिङ्गलाया न चापरम् ॥ १४७ ॥
 
अथ काकस्य शुभचेष्टितानि ।
 
2470
 
पृष्ठे पुरो वा नवगोमयस्थो
वटादिषु क्षीरतरुष्वपीह ।