This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2455
 
फेफेहूहू भुभूश्चैव हाउहाउ हहस्तथा ।
 
एतान्पञ्च स्वरान्ते सर्वदिक्संगता शिवा ॥ १३३ ॥
 
2456
 
फेफे नगरनाशाय हूहू सर्वसुखप्रदा ।
 
भुभृश्च विवरं ब्रूते हाउहाउ महाभयम् ॥ १३४ ॥
 
2457
 
हहश्व नृपनाशाय मिश्रैर्मिफलं भवेत् ।
 
पुरासन्ने फलं शीघ्र फलं दूरे विश च ॥ १३५ ॥
अथ फेरुशब्दाः ।
 
2458
 
उज्जाडिने यदा यामे गच्छतां दक्षिणस्वराः ।
 
श्रृगालास्तं पुन: स्थानं कथयन्ति करस्थितम् ॥ १३६ ॥
 
2459
 
स्थानस्थानां चतुर्दिक्षु समकालविराविण: ।
 
दुष्टमीति समाख्यन्ति सर्वथा चाशुभा दिने ॥ १३७ ॥
 
2460
 
सर्वासु दिक्षु फेरूणां शिवारुतवदादिशेत् ।
 
एको रवः सदा निन्द्यः सोपि भीतस्य शान्तिदः ॥ १३८ ॥
 
2461
 
बन्धाय धावतां शब्दो युध्यतां कन्दलाय च ।
 
शुभाय हृष्टफेरूणां दिक्षु शान्तासु वा रवः ॥ १३९ ॥
अथ कौशिकः ।
 
2462
 
रात्रौ गृहस्योपरि भाषमाणो
दुःखाय चूकः सुतमृत्यवे वा ।
गृहस्थनाशाय च सप्तरात्रा-
प्राशाय राज्ञो विगुणानुबन्धी ॥ १४० ॥