This page has not been fully proofread.

शकुन ज्ञानम्
 
2432
 
तूलिकोच्छीर्षके नित्यं यदि सेवति मण्डल ।
जार प्रवेशस्तद्वे हे जायते निशि सर्वदा ॥ ११० ॥
 
2433
 
मुसलोलूखले सूर्ये सणं खट्टां च कुकुरः ।
 
दवा शीर्षे स्वपति चेज्जारमाख्याति तद्गृ॒हे ॥ १११ ॥
 
2434
 
जृम्भां कृत्वा नभः प्रेक्ष्य मुञ्चत्यभूणि रौति वा ।
स्थाने तस्मिन्निदं ज्ञेयं विद्युत्पातो भविष्यति ॥ ११२ ॥
 
2435
 
यदि श्वा पललं कृत्वा मुखे नीरं विगाहते ।
संग्रामो वह्निना सर्व दह्यते कथयत्यदः । ११३ ॥
 
2436
 
गृहीत्वा गोमयं गेहे विशन्गोहरणाय सः ।
 
आत्मानं दशनैः खादन्स्थानं शून्यं करोति सः ॥ ११४ ॥
 
2437
 
सूर्योदये गृहोर्ध्वं च वह्निमीत्यै रुवन्भवेत् ।
सश्रा विवादाय भवेदासनादौ पुरीषकृत् ॥ ११५ ॥
 
2438
 
भुजद्रयं जिव्रति सारमेयः
पुंसो भवेत्तस्कर वैरियोगः ।
मांसास्थिभक्ष्याणि च मम्ममध्ये
स्याद्दोपयन्नग्निभयं प्रभूतम् ॥ ११६ ॥
 
2439
 
भषन्नमीक्ष्णं भवनस्थिताना-
मावेष्टनं चेत्कुरुते कदाचित् ।
कौलेयकोवश्यमुपस्थितं न-
ज्ज्ञेयं भयं वन्धनसंप्रवृत्तम् ॥ ११७ ॥