This page has not been fully proofread.

३५८
 
शार्ङ्गधरपद्धतिः
 
2425
 
ग्रामं निशायां खरसारमेयाः
 
शून्यं विधातुं सहिता रुवन्ति ।
ग्रामे भाषेत्वा भषणा: इमशाने
 
रुवन्ति नाशाय च मुख्यपुंसः ॥ १०३ ॥
 
2426
 
निष्कारणं यः प्रपलायते श्वा
विरोति वा वारिणि योवतीर्य ।
 
मृताङ्गरक्तास्थिमुखो रुगार्त-
गेहं विशेद्यः स च मृत्युमाह ॥ १०४ ॥
 
2427
 
खनत्यगारं यदि सारमेयः
 
कुये तदा स्यात्खलु संधिपात: ।
गोष्टप्रदेशे यदि गोपहारो
 
धान्यस्य भूमिं यदि धान्यलाभः ॥ १०५ ॥
 
2428
 
यदि वा निजपुंचिह्नं पाणिग्रहणकर्मणि ।
 
लेढि गौरीसमाध्यूढा कलङ्कयति सा कुलम् ॥ १०६ ॥
 
2429
 
कृत्वा शिरो द्वारि बहिर्वपुचे-
च्छा रौति दीर्घ गृहिणीं प्रपश्यन् ।
 
तद्रोगदो वक्ति च बन्धकीं तां
 
बहिर्मुखोभ्यन्तर कायभागः ॥ १०७ ॥
 
2430
 
खनित्वोपरि गेहस्य पुरीषं कुरुते यदि ।
जारस्यागमनं बक्ति पार्श्वाद्धनिकयोषितः ॥ १०८ ॥
 
2431
 
1
 
गृहे प्रविश्य चेदनं विक्षिपेत्कथयत्यदः ।
गृहिणी ते तदाप्यर्थे जारस्यैतद्विचारय ॥ १०९ ॥