This page has not been fully proofread.

शार्ङ्गधरपद्धति
 
2411
 
संमार्जनींचकर्पास सणकं सूर्पकङ्कतौ ।
गृहीत्वा संमुखेभ्येति तद्गृहं पूर्यते धनैः ॥ ८९ ॥
 
2412
 
वसुंधरायाः कमपि प्रदेश
 
सूर्ध्ना स्पृशन्यद्यवलोकते श्वा ।
ध्रुवं तदा तत्र महानिधान-
मस्तीति सिद्धैः कथितं रहस्यम् ॥ ९० ॥
 
2413
 
विवाहार्थे शुभ: शुन्या विधत्ते प्रस्रवं यदि ।
 
तदा विवाद्या तु कन्या शुभा सौख्यार्थभारभवेत् ॥ ९९ ॥
 
2414
 
दक्षिणाङ्गं यदा यक्षः स्पृशेदक्षिणपाणिना
 
तदा ऋद्धि विवाहार्थे विधत्ते चिन्तिताधिक्रम ॥ १२ ॥
 
2415
 
हृष्टास्यं भषणं प्रेक्ष्य क्रीडन्तं कान्तया सढ़ ।
विवाह्यते कुमारी या सा सौख्यं लभते तराम् ॥ १३ ॥
 
2416
 
चन्द्रार्की प्रेक्ष्य वर्षानु रौत्यूर्ध्ववदनो यदि ।
सतरात्राद्वारिपूरं पतिष्यति वदत्यः ॥ ९४ ॥
 
2417
 
नीरतीर्थे तटस्थश्चैदङ्गं कम्पयते शुनः ।
तत्र देशे घनां मेघवृष्टिं वदति भाविनीम् ॥ ९५ ॥
 
अथ शुनकस्याशुभचेष्टितानि ।
 
2418
 
च्छतां दक्षिणे यक्षो वामः प्रविशतां भवेत् ।
 
कार्षुकाणां स आख्याति कृषिकर्म विधत्त मा ॥ ९६ ॥