This page has not been fully proofread.

शकुनज्ञानम्
 
यमक्षये तत्क्षणमेव यक्षः
 
क्षिपत्यवश्य जठरावलेहान् ॥ ८२ ॥
 
2405
 
वामा वामचेष्टाश्र रोगप्रो शुभावहाः ।
उच्चस्थानाभयो हर्षो मूत्रस्राव: शुभः स्मृतः । ८३ ॥
 
अथागन्तुकशकुनम् ।
 
तत्र प्राक्छुनकस्य शुभचेष्टितानि ।
 
2406
 
स्थानस्थितस्य यस्य श्वा देहं जिनति लाभदः ।
क्रयाण के मूत्रयति भषणो लाभदायकः ॥ ८४ ॥
 
2407
 
दक्षिणेनाङ्गिणा कर्ण विलिखन्वृद्धिसूचकः ।
भषणो विलिखंचक्षुः प्रतिभूः प्रियसंगमे ॥ ८५ ॥
 
2408
 
उच्छीर्षे पदकं कृत्वा यदि शेते शुनस्तदा ।
आगच्छद्रल्लभं वक्ति तद्वेश्मन्यचिरादपि ॥ ८६ ॥
 
2409
 
द्वारप्रदेशे जघनं निघर्ष-
न्पूजार्हपान्थागमनाय यक्षः ।
करोति तत्रोपविशंश्च पुंसां
 
सङ्गं जनेनाभिमतेन सार्धम् ॥ ८७ ॥
 
2410
 
लिप्नपूरितचतुष्कविशेषे
 
प्राङ्गणे च निवहेत्सरमाजः ।
संपदं प्रवितरत्यतिब ह्वीं
 
तस्खनन्पुनर नर्थ करोसौ ॥ ८८ ॥
 
३५५