This page has not been fully proofread.

शकुनज्ञानम्
 
2385
 
मध्यात्तयोर्मण्डलयोस्तु येन
नैवेद्यमेकेन गृहीतमुक्तम् ।
मुङ्गे तृतीयः प्रणयेन तस्य
मिलत्यकस्मायुधि तत्र मित्रम् ॥ ६३ ॥
 
2386
 
समनतोर्यद्यविकारभावा-
त्समं तृतीयेन गुना तदन्नम् ।
श्वानौ तदानीं समुपैत्यवश्यं
 
राज्ञोस्तयोः संधिविधायि मित्रम् ॥ ६४ ॥
 
अथैकेन गुनकेन राजोः संग्राममनः ।
 
2387
 
ध्रुवं जयोस्तीति यदा तु पृष्ठे
राज्ञोईयोबुद्धिमता यथावत् ।
श्वानस्तु चेष्टां प्रकरोति शान्तां
युद्धं भवेत्तन्नृपयोरवश्यम् ॥ ६५ ॥
 
2388
 
दिक्स्थानचेष्टानिनदै: प्रशान्तै-
र्यथोत्तरं संगतवृद्धिकारी ।
चतुर्भिरेतैर्यदि शान्तदीप्तै-
स्तदा न संधिर्न च संपरायः ॥ ६६ ॥
 
2389
 
प्रदक्षिणादुत्तर मप्रदक्षिणं
 
यदा तदा संधिरनन्तरं रणात् ।
करोति यक्षो यदि तुष्यति क्रमा-
तदा तु संधिः प्रथमं रणं ततः ॥ ६७ ॥
 
३५१