This page has not been fully proofread.

३५०
 
शार्ङ्गधरपद्धतिः
 
मुञ्चेत्ततो यो बलिमत्ति जिला
मध्यात्तयोस्तस्य जयो नृपस्य ॥ ५७ ॥
 
2380
 
यद्याददाते च बलिं मिलित्वा
नेहान्वितौ भक्षयतो यदोभौ ।
जयार्थिनोः स्यान्नृपयोस्तदानी-
मन्योन्यसंधानविधानबुद्धिः ॥ ५८ ॥
 
2381
 
यन्नामकः श्वा प्रपलायनेच्छु-
ज्ञेयः स सत्रास इतीङ्गितज्ञैः ।
यन्नामधेयः पुनरस्तशङ्को
 
न तस्य राज्ञो भयमस्ति चित्ते ॥ ५९॥
 
2382
 
मुञ्चतो घुरघुरारवं यदा
 
वाञ्छतो न खलु खादितुं बलिम् ।
मण्डलीकृतनिजास्पदाश्रयौ
 
वैरमेव न तदा भवेद्रणम् ॥ ६० ॥
 
2383
 
श्वानावुभावप्यभिभूय साक्षा-
व्यदा परोआाति बलाइलिं चेत् ।
 
ध्रुवं तदान्यो नृपतिर्बलिष्ठ-
स्तौ भूपती जेतुमुपैति तूर्णम् ॥ ६१ ॥
 
2384
 
मध्याहूयोरेकतरेण येन
 
शुना गृहीतो बलिरात्मशक्त्या ।
आच्छिय भुङे भषणस्तृतीय-
स्तस्यापरस्तत्र भवत्यरातिः ॥ ६२ ॥