This page has not been fully proofread.

शकुनज्ञानम्
 
2374
 
उद्घाटय चेदक्षिणमक्षि लीढे
नामि स्वकीयामथवाधिरूढः ।
 
शेते गृहस्योपरि जागरूक
स्तदाम्बुदोम्बु क्षिपति प्रभूतम् ॥ ५२ ॥
 
2375
 
जृम्भां प्रकुर्वन्गगनं विलोक्य
यो जागरूकः कुरुतेश्रुपातम् ।
स जल्पति प्रावृषमम्बुपूर-
प्लुताव सर्वसमृद्धिसस्याम् ॥ ५३॥
 
2376
 
निर्गत्य तोयादधिरुह्य पालीं
 
कौलेयकश्चेद्विधुनोति कायम् ।
तन्निधितं प्रावृषमम्बुकाले
कृषीवलप्रीतिकरी करोति ॥ ५४ ॥
 
2377
 
उच्चं प्रदेशं भष्णोधिरुह्य
 
अषत्यभीक्ष्णं विमीक्षमाणः ।
यदा तदानीमचिरेण वृष्टि-
रम्भोदमुक्ता भवति प्रभूता ॥ ५५ ॥
 
अथ राज्ञोः शुनकयुगेन जयप्रश्नः ।
 
2378
 
युद्धोद्यतयो राज्ञोः शुनकाभ्यां जयपराजयप्रभः ।
कर्तव्यो विद्वद्भिस्तज्जाश्चेष्टास्तु कथ्यन्ते ॥ ५६॥
 
2379
 
युद्धार्थनोर्नाम युगेन राशोः
पृथक्पृथक्पक्षयुगं प्रकल्प्य ।
 
३४९