This page has not been fully proofread.

३४८
 
शार्ङ्गधरपद्धतिः
 
2369
 
श्वा चेवरस्याभिमुखं समेति
 
तदा न कन्या किल सा विवाद्या ।
यक्षः संमाजिप्रति यत्र शुन्या
 
योनिं स कन्यां क्षतयोनिमाह ।॥ ४७ ॥
 
अथ वरायें कन्याप्रश्नः ।
 
2370
 
प्र वरार्थ विहित कुमार्या
 
स्याद्दामचेष्टो शुभदो न चान्यः ।
मूत्रं च गुन्या उपारे प्रकुर्व-
न्ब्रूते सपत्नीं भषणो भवित्रीम् ॥ ४८ ॥
 
2371
 
मूत्रं निजं लेढि दिशं च वामां
प्रयाति तस्यां दयितोनुरागी ।
संमार्जयन्वामकरेण जिहां
 
ब्रवीति भोगप्रियतां वरस्य ॥ ४९ ॥
 
अथ वर्षामनः ।
 
2372
 
वर्षानिमित्तं शुनकोत्तमस्य
 
चेष्टा विशिष्टा विधिनोपदिष्टाः ।
 
याः शाकुनज्ञानविशारदैस्ताः
 
शृण्वन्तु शिष्टाः परमार्थपुष्टाः ॥ ५० ॥
 
2373
 
वर्षानिमित्तं शुनकोत्तमस्य
 
चेष्टाः प्रशस्ताः खलु दक्षिणा याः ।
शान्ताच या दीप्ततमा न शस्ता
 
न वामचेष्टाः शुनकस्य नूनम् ॥ ५१ ॥