This page has not been fully proofread.

शकुनज्ञानम्
 
2364
 
दिक्चेष्टितस्थानगतिस्वरायाः
 
पञ्चेह दीप्ताः खलु पञ्च शान्ताः ।
अन्येष्वपीमे शकुनेषु भूना
 
निमित्तविद्भिः परिभावनीयाः ॥ ४२ ॥
 
2365
 
भवन्त्यवामा यदि वामतश्च
 
चेष्टा: समस्ता न गुणो न दोषः ।
कौलेयको यास्त्वधिकाः करोति
फलं तदुत्थं प्रतिपादनीयम् ॥ ४३ ॥
 
2366
 
महोदयं पञ्चविधेन पुंसां
 
शान्तेन राज्यं वितरत्यवश्यम् ।
पञ्चप्रकारेण पुनस्तदेव
 
दीप्तेन यक्षो हरति प्रसह्य ॥ ४४ ॥
 
अथ कन्यार्थ वरप्रश्नः ।
 
2367
 
वरस्य कन्यावरणोद्यतस्य
 
कुमारिकायाः पतिमर्थयन्त्याः ।
आख्यायतेन्योन्यपरीक्षणाय
 
क्रमेण चेष्टा सरमासुतस्य ॥ ४५ ॥
 
2368
 
कौलेयके दक्षिणचेष्टिते स्या-
त्कन्या विवाह्या न तु वामचेष्टे ।
शुन्या समं केलिरते सुखेन
तयोढया सार्धमहानि यान्ति ॥ ४६॥
 
३४७