This page has not been fully proofread.

३४६
 
शार्ङ्गधरपद्धतिः
 
2355
 
वक्षोथ कण्डूयति दक्षिणेन
श्वा पाणिपादेन भवेत्तदानीम् ।
तुरंगमातङ्ग महिष्यजादि-
वादित्रसंपत्सहितं नृपत्वम् ॥ ३३ ॥
 
2356
 
यदा दक्षिणपादस्य नखैलिखति मण्डली ।
 
जठरं स्वं तदा तस्य लाभं वक्ति महत्तरम् ॥ ३४ ॥
 
2357
 
पश्याते जिघ्रति विलिखति कण्डूयति कृषति मार्टि परिलेढि ।
दक्षिणतोथ वलित्वा दक्षिणमङ्गं शुभं ख्यातम् ॥ ३५ ॥
 
2358
 
दक्षिणकटेन शेते दक्षिणचरणेन मूत्रयत्यथवा ।
उपविशति दक्षिणेन च पार्श्वन श्वा शिवं शंसन् ॥ ३६ ॥
 
2359
 
मेहति शुभप्रदेशे अयते शान्तां दिशं प्रदेशं च ।
अधिरोहति शय्यासनवेदिप्रासादहर्म्याणि ॥ ३७ ॥
 
2360
 
दक्षिणं चेष्टितं तस्य ज्ञेयं सर्व शुभावहम् ।
वामा गतिर्वामचेष्टा सर्वानर्थाय केवलम् ॥ ३८ ॥
 
2361
 
जृम्भणवमनपलायन चिन्ता निद्राङ्गभङ्गतनुकम्पौ ।
मूर्धश्रवणविधूननतनुचर्वणकासहिक्काश्च ॥ ३९ ॥
 
2362
 
भस्मोजूलनलोटन खनना क्रन्दनभक्ष्यपरिहाराः ।
रोदननेत्र निमीलनदृषदामहभास्करालोकाः ॥ ४० ॥
 
2363
 
दीतदिगाश्रयभीतिविश्रामोक्षादिकं च यहीतम् ।
निन्व्यं शान्तप्रश्ने दीप्तम भयं हन्ति ॥ ४१ ॥