This page has not been fully proofread.

23
 

 
संभक्ष्य पिण्डं स्थिरतां गतस्य
 
चेष्टादिकं तस्य निरूपणीयम् ॥ २७ ॥
 
अथ भूपतित्व प्रश्नचेष्टाः ।
 
2350
 
कण्डूयमानः खलु दक्षिणेन
हस्तेन भालं भषणो ददाति ।
प्रभाविनश्रीकृतराजचक्रं
 
राज्याभिषेके वरपट्टबन्धम् ॥ २८ ॥
 
2351
 
करेण कण्डूयति दक्षिणेन
 
यक्षो यदा वामकरं तदानीम् ।
प्रभूतमातङ्गघटासमृद्धं
 
ब्रूते समन्तात्पृथिवीपतित्वम् ॥ २९ ॥
 
2352
 
उद्घाटयेहक्षिणमक्षि यक्षो
हस्तेन मुद्रात्यय दक्षिणेन ।
यस्याभिषेके स भवेत्स्वशक्त्या
क्षितीशलक्षेक्षितपादपद्मः ॥ ३० ॥
 
2353
 
कौलेयको दक्षिणकर्णदेशं
 
करेण कण्डूयति दक्षिणेन ।
यदा तदा जल्पति गीतवाद्य-
विनोदयुक्तं पृथिवीपतित्वम् ॥ ३१ ॥
 
2354
 
कण्डूयते दक्षिणपाणिना चे-
त्स सारमेयो वदनं तदानीम् ।
 
भक्तैः प्रभूतैः सह भूमिपालै-
भन्यानि भक्ष्याणि चिरं भवन्ति ॥ ३२॥