This page has not been fully proofread.

३४४
 
शार्ङ्गधरपद्धतिः
 
ॐ बलिभोजनाय स्वाहा । इति नैवेद्यम् ।
ॐॐ स्वामिभक्ताय स्वाहा । इत्यर्ष्यम् ।
इति मध्ये मण्डलस्य यक्षपूजा ।
 
2344
 
तत आनीय शुनकं स्वच्छं कृत्वा निजं करम् ।
निधाय मस्तके तस्य मन्त्रमेनं ततो जपेत् ॥ २४ ॥
 
2345
 
मन्त्रः । ॐ कृतज्ञ प्रत्येहि ॐ रात्रिजागर एह्येहि
ॐॐ दिव्यज्ञानिन् एह्येहि ॐ प्रत्यक्षवचन एह्येहि
ॐ अहिजिह्वाय एह्येहि ॐ स्वल्पप्रिय एह्येहि इम-
मर्ध गृहाण सत्यं ब्रूहि ब्रूहि सत्यं स्वाहा ।
इति शुनकाभिमन्त्रणम् ।
 
2346
 
ततो नरो निजं कार्य निधाय हृदयेखिलम् ।
 
हविः पिण्डं समादाय मन्त्रं जावनी न्यसेत् ॥ २५ ॥
 
2347
 
मन्त्रः । ॐ नमो भगवते शुनकोत्तमाय महाशकुन-
गम्भीरशब्दाय प्रजापतये ऋतुकालाभिगा-
मिन् शीघ्रमेह्येहि बलिं गृहाण मम चिन्तितं
कार्य सत्यं ब्रूहि ब्रूहि ॐ हुं फट् स्वाहा ।
 
इति बलिनिवेदनम् ।
 
2348
 
अब्दायनर्तुष्वथ मासपक्ष-
दिनानि कार्येप्यवधौ विदध्यात् ।
हीनावधिर्येन भवत्यसत्यः
 
सर्वोपि लोके शकुनो गृहीतः ॥ २६ ॥
 
2349
 
एवंविधे भावि न वेति चित्ते
 
निवेश्य कार्य अषणं विमुञ्चेत् ।