This page has not been fully proofread.

३४२
 
शार्ङ्गधरपद्धतिः
 
2332
 
स्वस्वजातेस्तु पृच्छायां प्रष्टव्या इति केचन ।
सत्यं ब्रूते यथा कृष्णस्तथान्ये न मुनेर्मतम् ॥ १४ ॥
 
2333
 
आचार्यमानीय शुभेह्नि कार्य
पैष्टं श्वयुग्मं शुचिरर्चयित्वा ।
क्षीरेण भोज्यं भषणस्य तुष्ट्यै
दद्यात्कुमारीशिशुबान्धवेभ्यः ॥ १५ ॥
 
2334
 
सर्वाङ्गकृष्णः परिपूर्णकायः
 
शान्तो विरोगस्तरुणो बलिष्ठः ।
 
अवामभागानतपुच्छचेष्टो
 
बिभर्ति शुद्रो नखविंशतिं यः ॥ १६ ॥
 
2335
 
तं सारमेयं पुरुषोधिवास्य
 
विश्वास्य धृत्वा नपयेद्दिनान्ते ।
शुक्लाम्बरस्तां रजनीं व्रती स्या-
द्यत्नेन कुर्यात्सकलं समन्त्रम् ॥ १७ ॥
अधिवासनम् ।
 
2336
 
मन्त्रः । ॐ भुनकोत्तमास्मिन्कर्मणि मया
धिवासितोसि सत्यं ब्रूहि स्वाहा ।
इत्यात्महस्तं शुनकस्य शिरसि धृत्वाभिमन्त्रयेत् ।
 
2337
ततः प्रभाते नवगोमयेन
 
त्रिहस्तमात्रं चतुरस्रकं च ।
शुचौ मनोज्ञे विजने विदध्या-
द्धरातले मण्डलकं विशुद्धे ॥ १८ ॥