This page has not been fully proofread.

शकुनज्ञानम्
 
2325
 
पोतकी पिङ्गला काको जम्बुकी भषणस्तथा ।
पञ्चैतान्युत्तमान्याहुः शकुनानि मुनीश्वराः ॥ ७ ॥
 
2326
 
चत्वारि प्राक्तनान्याहुर्दुर्विज्ञेयानि तत्त्वतः ।
सुबोधो भषणस्तेषु तेन पूर्व स कथ्यते ॥ ८ ॥
 
2327
 
पृच्छाशकुनं वच्मि श्वानं मुक्त्तात्र नान्यसवस्य ।
प्रकटं सुलभं च यतो नैवंविधमस्ति किंचिदपि ॥ ९ ॥
अथ क्षैत्रिकशकुनम् ।
 
2328
 
अथोच्यते श्वानरुतस्य सारं
सारं समस्तेष्वपि शाकुनेषु ।
विस्पष्टचेष्टं शुभलक्षणं च
शुभाशुभं प्राक्तनकर्मपाकम् ॥ १० ॥
 
2329
 
विमर्शक: शाकुनशास्त्रदक्षो
 
विशुद्धबुद्धिः सतताभियुक्तः ।
यथार्थवादी शुचिरिङ्गितज्ञो
भवेदिहाचार्य पदाधिकारी ॥ ११ ॥
 
2330
 
श्वश्वानमल्नुभषणाः कौलेयककपिलजागरूकाथ ।
 
मण्डलकुकुरयक्षाः शुनक: सरमासुतस्याहाः ॥ १२ ॥
 
३४१
 
2331
 
वेता द्विजाः क्षत्रियकाश्च रक्ताः
पीताश्च वैश्या असिताश्च शूद्राः ।
विमिश्रवर्णाः शुनकास्तथेह
 
भवन्ति नानाविधकारुसंज्ञाः ॥ १३ ॥