This page has not been fully proofread.

उपवनविनोद:
 
2309
 
बीजं नरपलाङ्कोल्लतैलस्विन्नं शुभं सदा ।
उद्गच्छति मृदा पूर्णमम्भः सिक्तं करे क्षणात् ॥ २२८ ॥
 
2310
 
अङ्कोलतैलभावितमुषितं गोशकृति कुमुदकन्दमलम् ।
करकाम्बुकर्दमभूते कलशे कुसुमं समुद्रहति ॥ २२९ ॥
 
2311
 
गोकोलास्थिकरीषैस्तु दग्धे गर्ते विशोधिते ।
 
उप्तं च वालुकापूर्ण मूलकं गर्तवद्भवेत् ॥ २३० ॥
 
३३९
 
2312
 
इष्टकचिते समन्तात्पुरुष निखातेवटे तरुर्जातः ।
वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ॥ २३१ ॥
अथान्नादिनिष्पत्तिज्ञानम् ।
 
2313
 
फलकुसुमपत्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥ २३२ ॥
 
2314
 
न्ययोधेन तु यत्रकास्तिन्दुकवृद्धया च षष्टिको भवति ।
अश्वत्थेन ज्ञेया निष्पत्ति: सर्वसस्यानाम् ॥ २३३ ॥
 
2315
 
जम्बूभिः स्थलमाषा: शिरीषवृद्धया च मुद्द्रनिष्पत्तिः ।
गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥ २३४ ॥
 
2316
 
करिणश्च हस्तिकर्णैर्निर्देइया वाजिनोश्व कर्णेन ।
 
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥ २३५ ॥
 
2317
 
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिर शमीभ्यां दुर्भिक्ष मर्जुनै: शोभना वृष्टिः ॥ २३६ ॥