This page has not been fully proofread.

३३८
 
शार्ङ्गधरपद्धतिः
 
2300
 
मन्दारकुमरन्ध्रे या कौष्माण्डी निर्गता लता ।
मृद्रोमयवृते तस्मिन्सिक्ते फलति सा सदा ॥ २१९ ॥
 
2301
 
सूकरासृग्वसासिक्क मङ्गोलतैलभावितम् ।
एरण्डबीजं कारञ्जीफलं तेतिकौतुकम् ॥ २२० ॥
 
2302
 
खरतुरगविग्निवेशिततापितया या शलाकया मूले ।
तिर्यग्विद्धा कदली फलति फलं करिकराकारम् ॥२२१॥
 
2303
 
कोलशोणित
मेदोभ्यामकोल्लकथितेन च ।
 
सिञ्चिता कदली सूते दाडिमीफलमुत्तमम् ॥ २२२ ॥
 
2304
 
नरमांसवसारक्तदन्तिदन्तविचूर्णितैः ।
भिसा सिक्का रम्भा चूतफला भवेत् ॥ २२३ ॥
 
2305
 
अङ्कोल्लक्कथितं स्विन्नं नृमांसं छागदुग्धयुक् ।
पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥ २२४ ॥
 
2306
 
द्राक्षावल्लीसमाकारः सहकारः सदाफलः ।
जायते निश्चितं धत्ते सर्वेषामद्भुतं यदि ॥ २२५ ॥
 
2307
 
शशकूर्मासृग्मध्ये बहुभावितमाम्रजं बीजम् ।
रूढं सिक्तं दुग्धैः फलति फलं सर्वकालेषु ॥ २२६ ॥
 
2308
 
कृमिरिपुयवयष्टीमधुगुडदुग्धविलेपनेन निम्बतरुः
भवति जलदुग्धसिक्तः स्वभावतिक्तोपि मधुरफलः ॥२२७॥