This page has not been fully proofread.

उपवनविनोदः
 
2292
 
एकविंशतिवारेण कुक्कुटस्यासृजोक्षितम् ।
तत्क्षणाद्दाडिमीबीजं वर्धते फलति ध्रुवम् ॥ २११ ॥
 
2293
 
मत्स्यकोलवसामांसचणकक्षारभावितम् ।
 
यस्य कस्यापि वा बीजं ध्रुवं पुष्पफलं भवेत् ॥ २१२ ॥
 
2294
 
स्कन्धतः समन्ततः सूकरास्थिभिर्दृढम् ।
कीलितो न संशयं नाशमेत्यनोकहः ॥ २१३ ॥
 
2295
 
कुलत्थक्काथतोयेन तरुः पुष्पफलं त्यजेत् ।
किंशुकार्जुनतर्कारीलवणाम्बूक्षणेन च ॥ २१४ ॥
 
2296
 
नानावर्णैर्घटितं कन्दं कुमुदस्य सूत्रसंघटितम् ।
घृतमधुविलिप्तमुप्तं सूते कुसुमं तथावर्णम् ॥ २१५ ॥
 
2297
 
३३७
 
माहिषकरीष मंत्रैर्मृदित विशुष्कं दिनानि यत्सप्त ।
कुमुदफलबीजमुप्तं जनयति करवीरविटपं तत् ॥ २१६ ॥
 
2298
 
कूष्माण्डवार्ताकपटोलकादि-
बीजं वसाभावितमुप्तसिक्तम् ।
विशोधितायां भुवि सर्वकाल
 
फलान्यनस्थीनि महान्ति धत्ते ॥ २१७ ॥
 
2299
 
वार्ताकबीजं घृतमाक्षिकार्क-
विशोषितं गोमयलिप्तरन्ध्रे ।
 
बालस्य कूष्माण्डफलस्य तमं
 
पक्का गृहीतं फलितं महत्स्यात् ॥ २१८ ॥