This page has not been fully proofread.

३३६
 
शार्ङ्गधरपद्धतिः
 
2283
 
मधुयष्टिसिताकुष्ठमधुपुष्पविनिर्मितेः ।
मोदकैयादिते मूले निरस्थि स्यात्फलं तरोः ॥ २०२ ॥
 
2284
 
मधुककुसुमगुजा शर्करोदुम्बराज्यं
 
समधु निहितमन्तः काण्डमुत्कीर्य बड्डा ।
उपरि च परिलिप्तं वत्सविद्भिस्तरूणां
जनयति फलमेतत्स्वादु सेकादनस्थि ॥ २०३ ॥
 
2285
 
तत्काल निहतस्योच्चैश्छागस्य स्कन्धचर्मणा ।
 
बद्धायां वृक्षशाखायां फलपाको न जायते । २०४ ॥
 
2286
 
करि वर मृदितवली मुखनल कैर्मूलेषु कीलितस्य तरोः ।
संवत्सरं च यावत्फलितस्य फलानि जायन्ते ॥ २०५ ॥
 
2287
 
बजा चर्मतृणाभ्यां विडङ्गमधुदुग्धलेपितोल्लिख्य ।
शाखा पयोम्बुसेकाच्चिरमपि पकं फलं धत्ते ॥ २०६॥
 
2288
 
मोन कोलवसामांसदुग्धसेकेन धूपतः ।
 
सर्वबीजानि सावर्यमुत्तिष्ठन्ति फलन्ति च । २०७ ॥
 
2289
 
अङ्कोल्लतैलस्कर शिशुमारवसासु भावित बीजम् ।
सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तम् ॥२०८॥
 
2290
 
बीजमानादिवृक्षाणां पकं मीनफलाम्बुनि ।
अङ्कोल्लतैलदुग्धाज्ये निहितं बृहती भवेत् ॥ २०९ ॥
 
2291
 
भस्मन्यामेलितं शुष्क मुप्तमुद्भिद्यते सह ।
फलेनाशेषलोकस्य कृतकौतुकमञ्जसा ॥ २१० ॥