This page has not been fully proofread.

शार्ङ्गधर पद्धतिः
 
122
 
कोयं द्वारि हरिः प्रयाह्युपत्रनं शाखामृगस्यात्र कि
कृष्णोहं दयिते विभूमि सुतरां कृष्णादहं वानरात् ।
राधे मधुसूदनो व्रज लतां तामेव पुष्पान्विता-
मित्थं निर्वचनीको दयितया होणो हरिः पातु वः ॥ ३६ ॥
 
कस्यापि !
 
अथ दशावताराः ।
 
123
 
दिश्याइः शकुलाकृतिः स भगवान्नैःश्रेयसीं संपद
यस्य स्फूर्जदतुच्छपुच्छाशेखरप्रेजोलनक्रीडनैः ।
विष्वग्वार्धिसमुच्छलज्जलभरैभन्दाकिनीसंगतै-
गङ्गासागर संगमप्रणयिनी जाता विहायःस्थली ॥ ३७ ॥
 
124
 
निष्पत्यूह मनल्पकल्पचलित त्रैलोक्यरक्षागुरु:
क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम् ।
कल्पान्तोदधिमध्यमज्जनवशाइयासर्पतः संलुट-
पष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ ३८ ॥
 
125
 
दृप्यदैत्यकुटुम्बिनीजनमनःसंतोषसंकोचनः
कुर्याद्विश्वमनश्वरं स भगवान्क्रोडावतारो हरिः
यहंष्ट्राङ्कुर कोटिकोटर कुटी कोणान्तरस्थेयसी
पृथ्वी भात्यवदात केतकदलालीनेव भृङ्गाङ्गना ॥ ३९ ॥
 
हनुमत एते ।
 
126
 
चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते
धगद्धगिति मेदसि स्फुटरवास्थिनिष्ठागिति ।
पुनातु भवतो हरेर मरवैरिवक्षःस्थल-
कुणत्कार जपञ्जर क्रक चकाषजन्मानलः ॥ ४० ॥
 
वाक्पतिराजस्य