This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
सिक्तः क्षीरेण भूयो जलभरिततलञ्चण्डवातादिभमः
स्वस्थो भूत्वाङ्गिपायी कुसुमफलभर इण्यातनोति प्रकामम् ॥१८६॥
 
2268
 
वृक्षस्या शनिदग्धस्य जीवनं श्रृणु भेषजम् ।
घनोशीरमधूकैश्च मुद्रा माषा यवास्तिलाः ॥ १८७ ॥
 
2269
 
पिष्टाः क्षीराम्बुसंयुक्तः सेचयेत्तमभीक्ष्णशः ।
 
स सेकाप्यायितः शीघ्रं प्रकृतिस्थो भविष्यति ॥ १८८ ॥
 
2270
 
जनयित्वा फलकुसुमं यः पुनरुपयाति वन्ध्यतां शाखी ।
स क्षीरैः कुणपजलैर्भूयः सिक्तः फलव्येव ॥ १८९ ॥
 
2271
 
असे कतो त्यन्त निषेकतश्च
 
शाखाविशोषं फलिनो निरूप्य ।
 
सप्ताहमात्रं गृतमेव सर्पि-
विडङ्गदुग्धाम्बु निषेचनीयम् ॥ १९० ॥
 
2272
 
उन्निद्रता मत्स्यसगन्धिता च
प्रवालहानिः सपिपीलिकात्वम् ।
त्वग्भ्रंशनाद्वारिकृतादजीर्णा-
त्तरोर्भवेत्तत्र चिकित्सनीयम् ॥ १९१ ॥
 
2273
 
तन्मूलशूलं परशुप्रहारै-
विस्रावितं दोषरसं निहत्य ।
 
क्षौद्राज्यजन्तुन्नतिलैः प्रलिप्नं
 
मृत्पूरितं दुग्धजलैर्निषिश्चेत् ॥ १९२ ॥
 
2274
 
शर्करातिलगोक्षीरवारिसेकात्तथा तरीः ।
शोषः शाम्यति वृक्षस्य लेपधूपोपचारतः ॥ १९३ ॥