This page has not been fully proofread.

३३२
 
शार्ङ्गधरपद्धतिः
 
2253
 
तान्सर्वानेकतः कृत्वा वह्नौ नीरेण पाचयेत् ।
संपकं हि क्षिपेद्भाण्डे तत्र दुग्धं च निक्षिपेत् ॥ १७२ ॥
 
2254
 
चूर्णीकृत्य खलिर्देया तिलानां माक्षिकं तथा ।
स्विन्नांश्च सरसान्माषांस्तत्र दद्याद्वृतं तथा ॥ १७३ ॥
 
2255
 
उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् ।
पक्षकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ॥ १७४ ॥
अथ तरुचिकित्सा ।
 
2256
 
नराणामिव वृक्षाणां वातपित्तकफागदाः ।
संभवन्ति निरूप्यातः कुर्यात्तदोषनाशनम् ॥ १७५ ॥
 
2257
 
कीटजग्धेनिसंपुष्टे वातभने शनिक्षते ।
 
वृक्ष छेदोपचारादिपीडिते च पृथक्रिया ॥ १७६ ॥
 
2258
 
कृशो दीर्घौ लघु रूक्षो निद्राहीनोल्पचेतनः ।
 
न धत्ते फलपुष्पाणि वातप्रकृतिकस्तरुः ॥ १७७ ॥
 
2259
 
आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।
अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ॥ १७८ ॥
 
2260
 
स्निग्धशाखादल: शाखी सम्यक्पुष्पफलोज्ज्वलः ।
लतापरीतगात्रस्तु कफवान्परिमण्डलः ॥ १७९ ॥