शार्ङ्गधरपद्धतिः /346
This page has not been fully proofread.
उपवनविनोदः
2245
कुलमाषदन्तिदन्तानां चूर्णयुक्पङ्कसंभवा ।
प्रत्यहं पुष्पिताम्भोजमण्डिता पद्मिनी भवेत् ॥ १६४ ॥
2246
सिद्धार्थ: कदलीदलानि शफरी विट्रोलमार्जारयो-
रेतेषां समभागमाज्यसहितं चूर्ण तरुभ्यो हितम् ।
दत्तं धूपविलेपनोपचरणैराप्यायनं रोगह-
च्छाखा: पल्लवयत्यलं मधुकरव्यालोलपुष्पच्छदाः ॥ १६५ ॥
2247
धूपो घृतस्य समृदो यववारिसेको
नित्यं च दुग्धसलिलैः कुणपाम्बुभिर्वा ।
लेपो विडङ्गतिलकल्ककृतः शिशूनां
वृद्धिं करोति परमां खलु भूरुहाणाम् ॥ १६६ ॥
2248
अङ्कोल्लकायतोयेन मिश्रितं घृतमाक्षिकम् ।
वसा किटिकुरङ्गाणामेतैः सिक्का महीरुहाः ॥ १६७ ॥
2249
सिद्धार्थकफलोपेताः सर्वदा फलशोभिताः ।
जायन्ते पुष्पपत्राद्याः सच्छाया रोगवर्जिताः ॥ १६८ ॥
2250
यष्टीमधूकपुष्पाणि सिता कुष्ठं समाक्षिकम् ।
निक्षिप्य गुलिकाः कृत्वा मूले सर्वत्र निक्षिपेत् ॥ १६९ ॥
2251
दुग्धसेकं च वृक्षस्य यस्य कुर्याद्विचक्षणः ।
फलं सुनिश्चितं तस्य मधुरं जायते भृशम् ॥ ॥ १७० ॥
अथ कुणपजलम् ।
2252
कुरङ्गकिटिमत्स्यानां मेषच्छागलखड़िनाम् ।
मांसं ग्राह्यं यथालाभं मेदोमज्जावसास्तथा ॥ १७१ ॥