शार्ङ्गधरपद्धतिः /345
This page has not been fully proofread.
  
  शार्ङ्गधरपद्धतिः
  
2238
   
कोशातकी दलाशेफाकथितामिषाम्भ:-
संसेचनाच्च सुकणारजसा च युक्तः ।
लब्धोपचारमथ धूपंजलाभिषिक्तः
   
शोभां विभति नितरां कुसुमैर्मधूकः ॥ १५७ ॥
   
2239
   
तिल यष्टिमधुक मधुभिमिश्रितजलसेकतर्पिता बदरी ।
कुणपैरुपचितमूला फलति फलं शर्करामधुरम् ॥ १५८ ॥
   
2240
   
अजैडकास्करत्रिविडङ्ग-
किण्वोपचारेण च बीजपूरः ।
भूयोश्वमूत्राविलवारिसिक्तः
   
फलानि धत्ते सुबहूनि शश्वत् ॥ १५९ ॥
   
2241
   
वृश्चिककण्टकविद्धाः सुरभीघृतधूपिता हि निखिललता: ।
मूषकक्रोलवसाभिः संसिक्ताः म्यु: फलैर्नम्राः ॥ १६० ॥
   
2242
   
सुरभिजलनिषेकतो निदाघे
   
कुणपजलेन च केतकी निषिक्ता ।
जलधर समये सुगन्ध सूची-
चयनिचितानि बिभर्ति पद्धवानि ॥ १६१ ॥
   
2243
   
यस्य कस्यापि पुष्पस्य सौरभेणाधिवासितान् ।
मृत्तिकाशकलान्मूले वृक्षाणां बहलाक्षिपेत् ॥ १६२. ॥
   
2244
   
कुष्ठपत्रसुरामुस्तात गरोशीर
चूर्णकैः ।
मिश्रितेनाम्भसा सेकान्मासं सौरभसंभवः ॥ १६३ ॥