शार्ङ्गधरपद्धतिः /342
This page has not been fully proofread.
उपवन विनोद:
2218
ग्रन्थिप्रचुरा यस्मिञ्शमी भवेदुत्तरेण वल्मीकः ।
पश्चात्पञ्चकरान्ते शतार्धसंख्यैर्नरैः सलिलम् ॥ १३७ ॥
2219
जम्बू त्रिवृता श्यामा शिशुमारी शारिवा शिवा दूर्वा ।
वीरुधयो वाराही ज्योतिष्मती गरुडवेगा च ॥ १३८ ॥
2220
सूकरिका माषलता व्याघ्रपदा चेति यद्यहेर्निलये ।
वल्मीकादुत्तरतः करैस्त्रिपुरुषागतं तोयम् ॥ १३९ ॥
2221
एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।
एतैरेव निमित्तैर्मरुभूमावष्टभिः कथयेत् ॥ १४० ॥
३२७
2222
एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ १४१ ॥
2223
हस्तो मघानुराधापुष्यधनिष्ठोत्तराच रोहिण्यः ।
शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥ १४२ ॥
2224
आये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ १४३ ॥
2225
नैर्कतकोणे बालक्षयं च वनिताक्षयं च वायव्ये ।
दिश्यैशान्यां भीतिः शेषास्तु शुभावहा: कूपाः ॥ १४४ ॥
2226
या मेदिनी काशकुशैव युक्ता
नीला च मृद्यत्र सशर्करा त्र ।