This page has not been fully proofread.

३२६
 
शार्ङ्गधरपद्धतिः
 
2209
 
यस्मिन्क्षेत्रोद्देशे जातं शस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ १२८ ।'
 
2210
 
मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामि ।
ग्रीवा करभाणामिव भूतलसंस्था शिरा याति ॥ १२९ ॥
 
2211
 
पूर्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् ।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ १३० ॥
 
2212
 
चिह्नं दर्दुर आदौ मृत्कपिला तत्परं भवेद्धरिता ।
भवति च पुरुषे वादमा तस्य तले वारि निर्देइयम् ॥१३१॥
 
2213
 
बदरीरोहितवृक्षौ संपृक्तौ चेहिनापि वल्मीकात् ।
हस्तत्रयेम्बु पश्चात्षोडशभिर्मानवैर्भवति ॥ १३२ ॥
 
2214
 
सुरसं जलमादौ दक्षिणे शिरा वहति चोत्तरेणान्या ।
पिष्टनिभः पाषाणो मृच्छ्रेता वृश्चिकोर्धनरे ॥ १३३ ॥
 
2215
 
सकरीरा चेद्वदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
अष्टादशभिः पुरुषैरेशानी बहुजला च शिरा ॥ १३४ ॥
 
2216
 
ककुम करीरावेकत्र संयुतौ ककुभबिल्वौ वा ।
हस्तत्रयेम्बु पश्चानरैर्भवत्येकविंशत्या ॥ १३५ ॥
 
2217
 
वल्मीकमूर्धनि यदा दूर्वा दर्भाच पाण्डुराः सन्ति ।
कृपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ १३६ ॥