This page has not been fully proofread.

उपवनविनोद:
 
2200
 
एतैर्यदि सुनिग्धैर्वल्मीकैः परिवृतास्ततस्तोयम् ।
हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य ॥ ११९ ॥
 
2201
 
:
 
अतृणे सतॄणा यस्मिन्सतृणे तृणवर्जिता मही यत्र ।
तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥ १२० ॥
 
2202
 
कण्टक्यकण्टकानां व्यत्यासेम्भस्त्रिभिः करै: पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ १२१ ॥
 
३२५
 
2203
 
वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।
विज्ञातव्यं शाखाग्रतले नीरं त्रिपुरुषं तु ॥ १२२ ॥
 
2204
 
फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणाधः क्षितिः पीता । १२३ ॥
 
2205
 
यदि कण्टकहीना स्यानिदिग्धिका शुभ्रपुष्पसंयुक्ता ।
तस्यास्तलेम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे वा ॥ १२४ ॥
 
2206
 
खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
तस्याः पश्चिमभागे निर्देइयं त्रिपूरुषैर्वारि ॥ १२५ ॥
 
2207
 
यदि भवति कर्णिकार: सितकुसुम: स्यात्पलाशवृक्षो वा ।
सव्येन तत्र हस्तइयेम्बु पुरुषत्रये भवति ॥ १२६ ॥
 
2208
 
ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।
निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥ १२७ ॥