This page has been fully proofread once and needs a second look.

अथाशिषः
 

116
 

अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोपि नूनं

पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेर्भकाणाम् ।

तस्मिन् राधासखो वः सुखयतु विलसल्लीलया कैटभारि-

र्
व्यतन्त्रानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान्
 
कस्यापि ।
 
॥३०॥
 

कस्यापि ।
117
 

दर्पणार्पित मालोक्य मायालीस्त्रीरूपमात्मनः ।
 

आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ३१ ॥
 

कस्यापि ।
 
119
 
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् ।
राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ३३ ॥
 

118
 

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते

किं त्वेवं विजनस्थयोर्हतजन: संभावयत्यन्यथा ।
 

इत्यामन्त्रणभङ्गेि·सृसूचितवृथावस्थानखेदालसा-

माश्लिष्यन्पुलकाङ्कुराञ्चिततनुर्गोपीं हरिः पातु वः ॥ ३२ ॥
 

कस्यापि ।
 
१९
 

119
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् ।
राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ३३ ॥
कुमुदस्य ।
 

120
 

रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु-
वी

र्वा
चा पञ्चवटीवने निवसतस्तस्याहरद्रावणः ।

कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां

सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ३४ ॥
 

वसुंधरस्य ।
 

121
 

सकलभुवनबन्धोर्वैर भिन्दोः सरोजै-

रनुचितमिति मत्वा यः स्वपादारविन्दम् ।

यितुमिव मायी योजयत्याननेन्दौ
 

वटदलपुटशायी मङ्गलं वः कृषीष्ट ॥ ३५ ॥
 

कस्यापि ।