शार्ङ्गधरपद्धतिः /338
This page has not been fully proofread.
उपवनविनोद:
2182
पूर्वेण यादे बदर्या वल्मीको दृश्यते जलं पश्चात् ।
पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकार्धनरे ॥ १०१ ॥
३२३
2183
सफला वा बदरी चेहिश्यपरस्यां जलं ततो भवति ।
पुरुषत्रये सपादे भवति परं दुन्दुभेश्चिह्नम् ॥ १०२ ॥
2184
का कोदुम्बारकायां वल्मीको दृश्यते शिरा तस्मिन् ।
पुरुषत्रये सपादे पश्चिमदिक्स्था च सा वहति ॥ १०३ ॥
2185
आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः ।
पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ १०४ ॥
2186
आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य ।
अध्यर्षे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥१०५ ॥
2187
तस्यैव पश्चिमायां वल्मीको यदि भवेद्धस्ते ।
तत्रोदग्भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः ॥ १०६ ॥
2188
श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुङ्कुमाभोइमा ।
अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेतीते ॥ १०७ ॥
2189
सकुश: सित एतस्यां वल्मीको यत्र कोविदारस्य ।
मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम् ॥ १०८ ॥
2190
प्रथमपुरुषे भुजंग: कमलोदरसंनिभा मही रक्ता ।
कुरुविन्दक पाषाणा चिह्नान्येतानि वाच्यानि ॥ १०९ ॥