शार्ङ्गधरपद्धतिः /337
This page has not been fully proofread.
३२२
शार्ङ्गधरपद्धतिः
2174
कलुषं कटुकं लवणं विरसं
सलिलं यदि वाशुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं
ससुगन्धि गुणैरपरैश्च युतम् ॥ १३ ॥
अथ कूपायें भूमिपरीक्षा ।
2175
पातालादूर्ध्वगमाः शिराः प्रसर्पन्ति सर्वतो दिक्षु ।
नीरस्य भूमिमध्ये जात्वा ताः कल्पयेत्कूपम् ॥ ९४ ॥
2176
यदि वेतसोम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
सार्वे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ९५ ॥
2177
चिह्नमपि वार्धपुरुषे मण्डूकः पाण्डुरो हि मृत्पीता ।
पुटभेदकश्च तस्मिन्पाषाणे भवति बहुतोयः ॥ ९६ ॥
2178
जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थ: ।
तस्मादक्षिणपसलिलं पुरुषद्वये साधु ॥ ९७ ॥
2179
अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।
मृद्भवति तत्र नीला दीर्घ कालं च बहुतोयम् ॥ ९८ ॥
2180
बल्मीकोपमिनायां निर्गुण्डयां दक्षिणे करत्रयोन्माने ।
पुरुषद्वयेन पादे भवति जलं स्वादु चाशोष्यम् ॥ ९९ ॥
2181
रोहित मत्स्योर्धनरे मृत्कपिला पाण्डुरा ततः परतः ।
सिकताश्च शर्कराच क्रमेण परतो भवत्यम्भः ॥ १०
००॥