This page has not been fully proofread.

उपवनविनोद :
 
2168
 
मन्त्रः । विलम्बिनो यत्र तटद्रुमा वपु -
विलोकयन्ति प्रसवेक्षणैरिव ।
 
समं दिशन्तः कलहंसभूषणा
काचेद्भवेत्पुष्करिणी मनोरमा ॥ ८७ ॥
 
2169
 
निर्याद: सलिलां सुखावतरणां तीरेषु पुष्पद्रुमां
कूजद्दक्षविहंगमां सतरणी मल्यायतां दीर्घिकाम् ।
 
कुर्यात्तत्र समुल्लसत्कमलिनीपचाङ्कुरदयामलां
श्यामालोचन मलिकांवित नीलोपलानि कचित् ॥८८॥
 
2170
 
उपवनमिव वारिमध्यमग्नं
 
विमलतया प्रतिबिम्बितं दधाना ।
शशिकरनिकरेण पूरितेव
 
क्वचिदुपनेयपयाः सुखाय वापी ॥ ८९ ॥
 
2171
 
३२१
 
मध्ये तस्मिञ्शिशिरशिखरिस्पर्वि वेश्म प्रवातं
गृढोपान्तं सुरभिकुसुमैः शाखिभिर्नस्रशाखैः ।
स्थाने स्थाने स्फटिकधवलं मण्डपं मण्डनाई
कुर्यात्कस्मिन्नपि च कदलीमन्दिर मन्दवायु ॥ ९० ॥
 
2172
 
क्वचिदपि कृपं कुर्यादुपवनदेशे मुमृटसलिलभरम् ।
संसिक्कसकलविटपं बद्धं पाषाणसंचयैः परितः ॥ ९१ ॥
 
2173
 
अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
कनकफलसमायुक्त: कूपे योगः प्रदातव्यः ॥ ९२ ॥