This page has not been fully proofread.

३२०
 
शार्ङ्गधरपद्धतिः
 
मन्लः । ॐ स्वस्ति किष्किन्धास्थितप्रकट पराक्रमान्तर्हितार्कमण्ड-
लोपजीवितस्य श्रीहनूमानाज्ञापयति मूषकपतङ्गापपीलिका-
शलभकर भान्बक कीटगन्धिकानिब हैर्न स्थातव्यम् । आज्ञाम-
तिक्रममाणस्य शरीरनिग्रहः समावर्तयति । तस्य वानरसिंहस्य
क्रममाणस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव नर्दीत
॥ हुं फट् नमः ॥
 
2163
 
पत्रे मनुं समालिख्य जत्वा तं निखनेद्भुत्रि ।
क्षेत्रे कीटपतङ्काखुपिपील्यादिविनश्यति ॥ ८२ ॥
अयोपवनप्रक्रिया ।
 
2164
 
घनप्रवालस्थगितातपानि
विकीर्णपुष्पाणि समीरणेन ।
गृहाणि कुर्यादतिमुक्तकानां
लताभिरालोलमधुव्रताभिः ॥ ८३ ॥
 
2165
 
स्थानेष्वपरेषु तथा पादपयुगलेषु मिथुनसंवाह्याः ।
शाखावलम्बिनीभिर्दोलाः कार्या लताभिश्च ॥ ८४ ॥
 
2166
 
तरुविटपलता निकुञ्ज रम्या
विरचितकंदर सानुगण्डशैला ।
विविधमणिगुहा विचित्रधातुः
 
क्वचिदपि पर्वतिका विहारहेतुः ॥ ८५ ॥
 
2167
 
के कानिनादसुभगाः सदासंत्रासिताहयः ।
 
ताण्डवेन तदुद्देशान्मण्डयन्ति शिखण्डिनः ॥ ८६ ॥